X

Sanskrit Composition and Communication

By Shailesh Kumar Tiwari, डॉ० शैलेशकुमारतिवारी   |   Uttaranchal Sanskrit University, उत्तराखण्डसंस्कृतविश्वविद्यालय
Learners enrolled: 211


पाठ्यक्रमस्य   सफलसमाप्तेरनन्तरं   छात्राः   लघुसिद्धान्तकौमुद्याद्यनुसारं


वाक्यादिसंरचनां   तत्सम्बद्धान्यविषयांश्च   सम्यग्ज्ञातुं   प्रयोक्तुं   च  समर्थाः 


भविष्यन्ति ।


अयं पाठ्यक्रमः स्नातकक्षायां पठतां छात्राणां कृते तु वर्तत एव, स्नातककक्षां 


समुत्तीर्णानाम्   अन्यप्रतियोगिपरीक्षायाः   सन्नद्धतां   कुर्वाणानां   जिज्ञासूनां


छात्राणां च कृतेऽपि उपयोगी भविष्यति ।


सप्ताहः
-1

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 1 (व्याकरण-प्रत्याहारादिपरिचयः)

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 2 (संज्ञादिपरिचयः)

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 3 (अच्सन्धि परिज्ञानम्)

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 4 (हलसन्धि परिज्ञानम्)

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 5 (विसर्गसन्धिप्रभृति परिज्ञानम्)


सप्ताहः-2 


लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 6 (कारकादिपरिचयः प्रथमाविभक्तिश्च)

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 7 (कर्मकारक द्वितीयाविभक्तिश्च)

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 8 (कर्तृकरणादिसंज्ञाविधानं तृतीया-चतुर्थीविभक्तिश्च)

लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 9 (अपादानाधिकरणादि-संज्ञाविधानं पंचम्यादिविभक्तिश्च)


सप्ताहः-3


वाच्यम् (कर्तृकर्मभाववाच्यानि) -1

वाच्यम् (कर्तृकर्मभाववाच्यानि) -2

वाच्यम् (कर्तृकर्मभाववाच्यानि) -3

वाच्यम् (कर्तृकर्मभाववाच्यानि) -4



सप्ताहः-4

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 1 (तव्यत्प्रत्ययः) 

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 2 (अनीयर-यत्-ण्यत्-प्रत्ययाः)

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः -3(शतृशानच्प्रत्ययौ)

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 4 (क्त-क्तवतुप्रत्ययौ)



सप्ताहः-5 

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 5 (क्त्वाप्रत्ययः)

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः – 6 (क्त्वाप्रत्ययः)

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 7 (ल्यप्प्रत्ययः)

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 8 (तुमुन्प्रत्ययः)



सप्ताहः-6 

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 9

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 10

 

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 11 (तद्वितेषुमतुप्-इनि-ठन्-पिनि- श-न-इलच्-र-प्रत्ययाः)

लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 12

(टाबादिस्त्रीप्रत्ययाः)


सप्ताहः-7

आंग्लभाषातः संस्कृते संस्कृताद् आंग्लभाषायां चानुवादः – 1

आंग्लभाषातः संस्कृते संस्कृताद् आंग्लभाषायां चानुवादः – 2

आंग्लभाषातः संस्कृते संस्कृताद् आंग्लभाषायां चानुवादः – 3


सप्ताहः-8

हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 1

हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 2

हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 3

हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 4


सप्ताहः-9

हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः -5

हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः -6

हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः -7


सप्ताहः-10

व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) - 1

व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) – 2

व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) – 3

व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) – 4


सप्ताहः-11

 

परम्परागतविषयक- निबन्धाः - 1 (निबन्ध-स्वरूपादिपरिचयः) 

परम्परागतविषयक- निबन्धाः - 2 (वेदाः)

परम्परागतविषयक- निबन्धाः - 3 (उपनिषद्)

परम्परागतविषयक- निबन्धाः - 4 (संस्कृतभाषा)

परम्परागतविषयक- निबन्धाः - 5 (संस्कृतिः)


सप्ताहः-12

परम्परागतविषयक- निबन्धाः - 6 (रामायणम्)

परम्परागतविषयक- निबन्धाः - 7 (महाभारतम्)

परम्परागतविषयक- निबन्धाः - 8 (पुराणम्)

परम्परागतविषयक- निबन्धाः - 9 (गीता)

परम्परागतविषयक- निबन्धाः - 10 (प्रमुखसंस्कृत कवयः तत्कृतयश्च)


सप्ताहः-13

आधुनिकविषये निबन्धाः- 1 (मनोरंजनम)

आधुनिकविषये निबन्धाः- 2 (की्रडा)

आधुनिकविषये निबन्धाः- 3 (राष्ट्रियघटनाक्रमाः)

आधुनिकविषये निबन्धाः- 4 (अन्तराष्ट्रियघटनाक्रमाः)



सप्ताहः-14


आधुनिकविषये निबन्धाः- 5 (सामाजिकसमस्याः)

आधुनिकविषये निबन्धाः- 6 (पर्यावरणम्)

आधुनिकविषये निबन्धाः- 7 (संगणकम्)


Summary
Course Status : Upcoming
Course Type : Core
Language for course content : Sanskrit
Duration : 15 weeks
Category :
  • Language
Credit Points : 5
Level : Undergraduate
Start Date : 06 Jan 2025
End Date : 30 Apr 2025
Enrollment Ends : 28 Feb 2025
Exam Date : 24 May 2025 IST
NCrF Level   : 5.5
Shift :

I

Note: This exam date is subject to change based on seat availability. You can check final exam date on your hall ticket.


Page Visits



Course layout

CBCS इत्याधारितोऽयं “Sanskrit Composition & Communication (संस्कृतसंरचना एवं संचारः) इतिनामकः पाठ्यक्रमः 

स्नातककक्षायाः (प्रतिष्ठायाः) षष्ठसत्रपूरकः अर्थात् बी.ए (ऑनर्स) इत्यस्याः षष्ठसत्रस्य कृते वर्तते । अत्र अध्यापनसंरचनादिविषयकम् 

एतत्सम्बद्धान्यविषयकं च शिक्षणं बोधनं वा पाठ्यक्रमे निर्धारितग्रन्थानुसारं(लघुसिद्धान्तकौमुद्याद्यनुसारं) भविष्यति ।

अनेन प्रकारेणायं “संस्कृतसंरचना एवं संचारः” इति नामकः पाठ्यक्रमः निम्नरूपेण विभक्तो वर्तते ।

१. विभक्त्यर्थप्रकरणं, वाच्यं, कृत्प्रत्ययाश्च ।

२. अनुवादः संचारश्च ।

३. निबन्धः

१. “विभक्त्यर्थप्रकरणं वाच्यं कृत्प्रत्ययाश्च” इत्याख्ये विभागे छात्राः सर्वप्रथमं लघुसिद्धान्तकौमुद्याः सामान्यपरिचयपूर्वकं तदीयविभक्त्यर्थप्रकरणानुसारं 

कर्तृकर्मकरणादिकारकपरिचयं विभक्तिपरिचयपूर्वकप्रथमाद्वितीयादिविभक्तिविधानं तत्तदर्थं च ज्ञास्यन्ति । ततः परं कर्तृवाच्यं कर्मवाच्यं भाववाच्यं चेति 

वाक्यसंरचनादृष्ट्या वाच्यत्रयं ज्ञास्यन्ति । अनन्तरं कृत्यप्रत्ययेषु लघुसिद्धान्तकौमुद्यनुसारेण - तव्यत्, तव्य, अनीयर्, यत्, ण्यत्, ण्वुल्, तृच्, अण्, क्त, क्तवतु, 

शतृ, शानच्, तुमुन्, क्त्वा, ल्यप्, ल्युट्, घञ्, क्तिन् इत्येतान् प्रत्ययान् सूत्रनिर्देशादिसहितान् पठिष्यन्ति, पठित्वा च तत्तत्प्रत्ययद्वारा सूत्रनिर्देशपूर्वककृदन्तशब्दनिर्माणे 

तत्प्रयोगे च समर्था भविष्यन्ति ।

२. “अनुवादः संचारश्च” - इत्यस्मिन् भागे छात्राः कारकसमासकृत्प्रत्ययाद्यनुसारेण हिन्दीभाषातः आङ्ग्लभाषातश्च संस्कृते अनुवादं कर्तुं ज्ञास्यन्ति ।

एवमेव संस्कृतात् हिन्द्याम् आङ्ग्लभाषायां च अनुवादं कर्तुं संस्कृतसंचारं (संस्कृतेन सम्प्रेषणसम्पर्कादिकं) संस्कृतवार्तालापं च ज्ञास्यन्ति ।

३. निबन्धः –  इत्यस्मिन्  भागे  छात्राणां  कृते  पारम्परिकविषयान्  आधुनिकविषयान्  चावलम्ब्य  निबन्धलेखनादिकं  ज्ञापयिष्यते । 

छात्राः इमं भागमधीत्य पारम्परिकविषयेषु आधुनिकविषयेषु च निबन्धलेखनादौ समर्थाः भविष्यन्ति । अत्र पारम्परिकविषयेषु वेदः, उपनिषद्, संस्कृतभाषा, संस्कृतिः, 

रामायणम्, महाभारतम्, पुराणम्, गीता, प्रमुखसंस्कृतकाव्यानि चेति विषयानधिकृत्य निबन्धाः प्रस्तुताः सन्ति । 

आधुनिकविषयेषु च मनोरंजन-क्रीडा-राष्ट्रियान्ताराष्ट्रियघटनाक्रम-सामाजिकसमस्याप्रभृतिविषयानधिकृत्य निबन्धाः निदर्शिताः सन्ति ।

प्रदत्तपाठ्यक्रमसम्बद्धगृहकार्यादिसहितोऽयं 
पाठ्यक्रमः चतुर्दशसप्ताहात्मको वर्तते । ततश्च पाठ्यक्रमे पूर्णे जाते सति अग्रिमे (प्रायः पञ्चदशे) सप्ताहे

परीक्षा भविष्यति ।


Books and references

लधुसिद्धान्तकौमुदी, भाग-1, सम्पादक- आचार्य रधुनाथ शास्त्री, चौखम्बा सुरभारती प्रकाशन, वाराणसी, प्रथम संस्करण; वर्ष- 2007

लधुसिद्धान्तकौमुदी, वेदपाल भस्कराचार्य, साहित्य भण्डार मेरठ। 

संस्कृत-व्याकरण-प्रवेशिका, बाबूराम सक्सेना, इण्डियन प्रेस क्लब, इलाहाबाद 1972

मध्यसिद्धान्तकौमुदी- वरदराजाचार्यः, टीकाकारः पण्डित रामचन्द्र झा, चौखम्बा अमरभारती प्रकाशन वाराणसी।

वैयाकरणसिद्धान्तकौमुदी- भयोजि दीक्षितः

अष्टाध्यायी- पाणिानिः

अनुवादचन्द्रिका- चक्रधरनौटियाल

बालमनोरमा टीका - वासुदेवदीक्षितः।

संस्कृत व्याकरण एवं लधुसिद्धान्तकौमुदी, पप्रश्री डॉ0 कपिलदेव द्विवेदी, विश्वविद्यालय प्रकाशन, वाराणसी, 2012

बृहद्-अनुवाद-चन्द्रिका-  चक्रधर नौटियाल ‘हंस’ शास्त्री, मोतीलाल बनारसीदास, दिल्ली।

Instructor bio

डॉ० शैलेशकुमारतिवारी

 

डॉ० शैलेशकुमारतिवारी सम्प्रति हरिद्वारे उत्तराखण्डसंस्कृतविश्वविद्यालस्य व्याकरणविभागे सहाचार्यः विभागाध्यक्षश्च वर्तते । इतः पूर्वम् जनवरी २००७ तः हरिद्वारस्थ श्रीभगवानदास-आदर्श-संस्कृत-महाविद्यालये व्याकरणविभागे सहायकाचार्य आसीत् । ततः पूर्वं वाराणस्यां गुरुपरम्परानुसारं तत्तद्गुरुभ्यः समधीतव्याकरणन्यायवेदान्तादितत्तच्छास्त्रः काशीहिन्दूविश्वविद्यालयतः समुत्तीर्णशास्त्रि-आचार्यादिपरीक्षाकः तत्रैव UGC- JRF प्राप्नुवन् सम्पादितशोधकार्यः प्रायेण पञ्चवर्षाणि यावत् व्याकरणविभागे अध्यापयत् । अध्ययनकाले वाराणसीस्थ-सार्वभौमसंस्कृत-प्रचारसंस्थाने निवसन् संस्कृतप्रचारप्रसारादिविषयकं नैकविधकार्यमकार्षीत् । संप्रति राष्ट्रियसंस्कृतसंस्थानेन दूरस्थशिक्षामाध्यमेन संचाल्यमानायाम् आचार्याकक्षायां द्वाविंशतिः पाठाः , शास्त्रिकक्षायां द्वौ पाठौ च पाठ्यग्रन्थे प्रकाशिताः अध्याप्यमानाश्च सन्ति । अस्य विभिन्न-राष्ट्रियान्ताराष्ट्रियपत्रिकासु पञ्चविंशत्यधिकशोधनिबन्धाः अनेकानि पुस्तकानि अनेकानि चित्रांकनानि (वीडियो एपिसोड)  अनेकानि लेखकाव्यादीनि च प्रकाशितानि सन्ति ।



डॉ० शैलेशकुमारतिवारी

उत्तराखण्डसंस्कृतविश्वविद्यालय

Course certificate

30 marks will be allocated for internal assessment and 70 Marks will be allocated for External proctored examination.

A minimum of 40% passing marks (i.e. at-least 12 marks in Internal Assessment & 28 Marks in External proctored examination) will be required for being eligible for Swayam Certificate


MHRD logo Swayam logo

DOWNLOAD APP

Goto google play store

FOLLOW US