सी-बी-सी-एस-इत्याधारितोअयम् Critical Survey of Sanskrit Literature (संस्कृतसाहित्यस्य समालोचनात्मकं सर्वेक्षणम्) इतिनामकःपाठ्यक्रमः स्नातक/बी-ए- कक्षायाःद्वितीयसत्रस्य कृते विद्यते। अस्य पाठ्यक्रमस्य उद्देश्यमस्ति सरसतया सरलतया च संस्कृतानुरागिणां जिज्ञासूनां छात्रणां वैदिकसाहित्य-रामायण-महाभारत-पुराण-व्याकरण-दर्शन-साहित्यादिग्रन्थाध्ययने अभिमुखीकरणम्। अस्य पाठ्यक्रमस्य यथाविधि अध्ययनेन जिज्ञासवः छात्रःअल्पेनैव प्रयासेन संस्कृतभाषायां निबद्धानां ग्रन्थानां प्रमुखसिद्धान्तान् ज्ञातुं सक्षमास्तु भविष्यन्त्येव सहैव अमूल्यसिद्धान्तरत्नाकराणां संस्कृतग्रन्थानाम् अध्ययने गवेषणे च सहजतया प्रवृत्ता अपि भविष्यन्ति।
संस्कृतसाहित्यस्य समालोचनात्मकं सर्वेक्षणम् इत्यभिधानोअयं निर्धारितःपाठ्यक्रमः पंचसु खण्डेषु संविभक्तो विद्यते, तत्रपि पृथक् पृथक् उपखण्डाःक्रेडिट्स वा सन्ति।यन्माध्यमेन पाठ्यक्रमः सरलःसुव्यवस्थितश्च भवति। निर्धारितःपाठ्यक्रमः अनेन प्रकारेण अस्ति।
प्रथमखण्डः वैदिकसाहित्यम्
द्वितीयखण्डः रामायणम्
तृतीयखण्डः महाभारतम्
चतुर्थखण्डः पुराणानि
पंचमखण्डः व्याकरण-दर्शन-साहित्यशास्त्रणां सामान्यपरिचयः
Course Status : | Upcoming |
Course Type : | Core |
Language for course content : | Sanskrit |
Duration : | 15 weeks |
Category : |
|
Credit Points : | 5 |
Level : | Undergraduate |
Start Date : | 14 Jul 2025 |
End Date : | 31 Oct 2025 |
Enrollment Ends : | 31 Aug 2025 |
Exam Date : | |
NCrF Level : | 4.5 |
डॉ- प्रकाशचन्द्रपन्तः
उत्तराखण्डसंस्कृतविश्वविद्यालये शिक्षाशास्त्रविभागे सहायक-आचार्यः डॉ- प्रकाशचन्द्रपन्तः संस्कृतस्य युवा कविः अस्ति। एतस्य संस्कृतसेवां लेखनकार्यं च विलोक्य एषः विविधाभिः संस्थाभिः सम्मानितो वर्तते। तत्र हि संस्कृतभूषणसम्मानः, युवासाहित्यकारसम्मानः, साहित्यरत्नसम्मानः, दीपशिखासम्मानश्च प्रमुखाः सन्ति। एतस्य कविताः, नाटकानि कथाः समस्यापूर्तयश्च पुरस्कृताः सन्ति। संस्कृतसाहित्यस्य गद्य-पद्य-कथा-नाटक-गीत-गलज्जलिका-समस्यापूर्ति-प्रभृति विधासु साम्प्रतमपि डॉ- प्रकाशपन्तः निरन्तरं लिखति। न केवलं संस्कृते प्रत्युत एषः हिन्दी-कुमाऊँनीभाषयोः अपि कविताः लिखति। राष्ट्रियान्ताराष्ट्रियकविसम्मेलनेषु च काव्यपाठं करोति। अस्य प्रायः दशाधिक- संस्कृतवार्ताः आकाशवाणीतः प्रसारिताः सन्ति। अयं राष्ट्रियान्ताराष्ट्रियशोधसम्मेलनेषु 35 शोधपत्राणि पठितवान्। अस्य दशशोधपत्राणि च मूल्यांकितपत्रिकासु प्रकाशितानि सन्ति। अयं विभिन्नराष्ट्रियकार्यशालानां संयोजकः। डॉ- प्रकाशपन्तस्य रचिताः संस्कृतकविताः उत्तराखण्डराज्यस्य विद्यालयीयशिक्षायां पाठ्यन्ते तथा चानेन तृतीयकक्षातः द्वादशकक्षापर्यन्तम् उत्तराखण्डराज्यस्य प्राथमिक-माध्यमिकशिक्षायाः पाठ्यक्रमस्य पाठ्यपुस्तकानि अपि लिखितानि सन्ति।
DOWNLOAD APP
FOLLOW US